top of page
  • Writer's pictureLearning Paradigm

Lakshmi Ashtothram 108 | श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् | Sri Lakshmi Ashtottara #lakshmi

Updated: Nov 16, 2023







क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी | अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ‖

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषितां |

भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां पार्श्वे पङ्कज शङ्खपद्म निधिभिः युक्तां सदा शक्तिभिः ‖


सरसिज नयने सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे | भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ‖


ॐ प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां | श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ‖ 1 ‖


वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां | धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ‖ 2 ‖


अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीं | नमामि कमलां, कान्तां, क्षमां, क्षीरोद सम्भवाम् ‖ 3 ‖


अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभां | अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ‖ 4 ‖


नमामि धर्मनिलयां, करुणां, लोकमातरं | पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् ‖ 5 ‖


पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां | पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् ‖ 6 ‖


पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां | नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् ‖ 7 ‖


चतुर्भुजां, चन्द्ररूपां, इन्दिरा,मिन्दुशीतलां | आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ‖ 8 ‖


विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीं | प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् ‖ 9 ‖


भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं | वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् ‖ 10 ‖


धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदां | नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् ‖ 11 ‖


शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां | नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् ‖ 12 ‖


विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां | दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ‖ 13 ‖


नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां | त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् ‖ 14 ‖


लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीं | दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ‖ श्रीमन्मन्द कटाक्ष लब्ध विभवद्-ब्रह्मेन्द्र गङ्गाधरां | त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ‖ 15 ‖


मातर्नमामि! कमले! कमलायताक्षि! श्री विष्णु हृत्-कमलवासिनि! विश्वमातः! क्षीरोदजे कमल कोमल गर्भगौरि! लक्ष्मी! प्रसीद सततं समतां शरण्ये ‖ 16 ‖


त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः | दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः | देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतं | येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 17 ‖


भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं | अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ‖ दारिद्र्य मोचनं नाम स्तोत्रमम्बापरं शतं |

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 18 ‖


भुक्त्वातु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् | प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये | पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् ‖ 19 ‖


इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् ||




4 views0 comments

Comments


bottom of page